Vishnu Stotras related to Raam, Krushna

CharpatPanjarika Stotram
VishnuSahasraNaam Stotram
Madhurashtakam
Krushnashtakam
Shree Krushnashtakam
Krushna Aarti - Gujarati
Pandurangashtakam
Govindashtakam
Kevalyashtakam
NandaKumarashtakam
Narayan Upanishad
RaamRaksha Stotram
Raam Stuti

॥ चर्पटपञ्जरीका स्तोत्रं ॥

दिनमपि रजनी सायं प्रातः शिशिरवसन्तौ पुनरायातः ।

कालः क्रीडति गच्छत्यायुस्तदपि न मुञ्चत्याशावायुः ॥

भज गोविन्दं भज गोविन्दं भज गोविन्दं मूढमते ।

प्राप्ते सन्निहिते मरणे नहि नहि रक्षति डुकृङ्करणे ॥ १ ॥

अग्रे वह्निः पृष्ठे भानुः रात्रौ चिबुकसमर्पितजानुः ।

करतलभिक्षस्तरुतलवासस्तदपि न मुञ्चत्याशापाशः ॥ २ ॥

यावद्वित्तोपार्जनसक्तस्तावन्निजपरिवारो रक्तः ।

पश्चाज्जीवति जर्जरदेहे वार्तां पृच्छति कोऽपि न गेहे ॥ ३ ॥

जटिलो मुण्डी लुञ्छितकेशः काषायाम्बरबहुकृतवेषः ।

पश्यन्नपि च न पश्यति मूढो ह्युदरनिमित्तं बहुकृतवेषः ॥

भगवद्गीता किञ्चिदधीता गङ्गाजललवकणिका पीता ।

सकृदपि यस्य मुरारिसमर्चा तस्य यम: किं कुरुते चर्चा ॥

अङ्गं गलितं पलितं मुण्डं दशनविहीनं जातं तुण्डम् ।

वृद्धो याति गृहीत्वा दण्डं तदपि न मुञ्चत्याशापिण्डम् ॥

बालस्तावत्क्रीडासक्तः तरुणस्तावत्तरुणीरक्तः ।

वृद्धस्तावच्चिन्तामग्नः परे ब्रह्मणि कोऽपि न लग्नः ॥ ७॥

पुनरपि जननं पुनरपि मरणं पुनरपि जननीजठरे शयनम् ।

इह संसारे खलु दुस्तारे कृपयाऽपारे पाहि मुरारे ॥

पुनरपि रजनी पुनरपि दिवसः पुनरपि पक्षः पुनरपि मासः ।

पुनरप्ययनं पुनरपि वर्षं तदपि न मुञ्चत्याशामर्षम् ॥

वयसि गते कः कामविकारः शुष्के नीरे कः कासारः ।

नष्टे द्रव्ये कः परिवारः ज्ञाते तत्त्वे कः संसारः ॥ १०॥

नारीस्तनभरनाभीनिवेशं मिथ्या माया मोहावेशम् ।

एतन्मांसवसादिविकारं मनसि विचारय वारं वारम् ॥

कस्त्वं कोऽहं कुत आयातः का मे जननी को मे तातः ।

इति परिभावय सर्वमसारम् विश्वं त्यक्त्वा स्वप्नविचारम् ॥

गेयं गीतानामसहस्रं ध्येयं श्रीपतिरूपमजस्रम् ।

नेयं सज्जनसङ्गे चित्तं देयं दीनजनाय च वित्तम् ॥

यावज्जीवो निवसति देहे कुशलं तावत्पृच्छति गेहे ।

गतवति वायौ देहापाये भार्या बिभ्यति तस्मिन्काये ॥

सुखतः क्रियते रामाभोगः पश्चाद्धन्त शरीरे रोगः ।

यद्यपि लोके मरणं शरणं तदपि न मुञ्चति पापाचरणम् ॥

रथ्याचर्पटविरचितकन्थः पुण्यापुण्यविवर्जितपन्थः ।

नाहं न त्वं नायं लोकस्तदपि किमर्थं क्रियते शोकः ॥

कुरुते गङ्गासागरगमनं व्रतपरिपालनमथवा दानम् ।

ज्ञानविहीनः सर्वमतेन मुक्तिं न भजति जन्मशतेन ॥

॥ श्रीविष्णुसहस्रनामस्तोत्रम् ॥

यस्य स्मरणमात्रेण जन्मसंसारबन्धनात् ।

विमुच्यते नमस्तस्मै विष्णवे प्रभविष्णवे ॥ ॥

ॐ शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं

विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम् ।

लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं

वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥ ॥

हरिः ॐ

विश्वं विष्णुर्वषट्कारो भूतभव्यभवत्प्रभुः ।

भूतकृद्भूतभृद्भावो भूतात्मा भूतभावनः ॥ १॥

पूतात्मा परमात्मा च मुक्तानां परमा गतिः ।

अव्ययः पुरुषः साक्षी क्षेत्रज्ञोऽक्षर एव च ॥ २॥

योगो योगविदां नेता प्रधानपुरुषेश्वरः ।

नारसिंहवपुः श्रीमान् केशवः पुरुषोत्तमः ॥ ३॥

सर्वः शर्वः शिवः स्थाणुर्भूतादिर्निधिरव्ययः ।

सम्भवो भावनो भर्ता प्रभवः प्रभुरीश्वरः ॥ ४॥

स्वयम्भूः शम्भुरादित्यः पुष्कराक्षो महास्वनः ।

अनादिनिधनो धाता विधाता धातुरुत्तमः ॥ ५॥

अप्रमेयो हृषीकेशः पद्मनाभोऽमरप्रभुः ।

विश्वकर्मा मनुस्त्वष्टा स्थविष्ठः स्थविरो ध्रुवः ॥ ६॥

अग्राह्यः शाश्वतः कृष्णो लोहिताक्षः प्रतर्दनः ।

प्रभूतस्त्रिककुब्धाम पवित्रं मङ्गलं परम् ॥ ७॥

ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः ।

हिरण्यगर्भो भूगर्भो माधवो मधुसूदनः ॥ ८॥

ईश्वरो विक्रमी धन्वी मेधावी विक्रमः क्रमः ।

अनुत्तमो दुराधर्षः कृतज्ञः कृतिरात्मवान् ॥ ९॥

सुरेशः शरणं शर्म विश्वरेताः प्रजाभवः ।

अहः संवत्सरो व्यालः प्रत्ययः सर्वदर्शनः ॥ १०॥

अजः सर्वेश्वरः सिद्धः सिद्धिः सर्वादिरच्युतः ।

वृषाकपिरमेयात्मा सर्वयोगविनिःसृतः ॥ ११॥

वसुर्वसुमनाः सत्यः समात्माऽसम्मितः समः ।

अमोघः पुण्डरीकाक्षो वृषकर्मा वृषाकृतिः ॥ १२॥

रुद्रो बहुशिरा बभ्रुर्विश्वयोनिः शुचिश्रवाः ।

अमृतः शाश्वतस्थाणुर्वरारोहो महातपाः ॥ १३॥

सर्वगः सर्वविद्भानुर्विष्वक्सेनो जनार्दनः ।

वेदो वेदविदव्यङ्गो वेदाङ्गो वेदवित् कविः ॥ १४॥

लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः कृताकृतः ।

चतुरात्मा चतुर्व्यूहश्चतुर्दंष्ट्रश्चतुर्भुजः ॥ १५॥

भ्राजिष्णुर्भोजनं भोक्ता सहिष्णुर्जगदादिजः ।

अनघो विजयो जेता विश्वयोनिः पुनर्वसुः ॥ १६॥

उपेन्द्रो वामनः प्रांशुरमोघः शुचिरूर्जितः ।

अतीन्द्रः सङ्ग्रहः सर्गो धृतात्मा नियमो यमः ॥ १७॥

वेद्यो वैद्यः सदायोगी वीरहा माधवो मधुः ।

अतीन्द्रियो महामायो महोत्साहो महाबलः ॥ १८॥

महाबुद्धिर्महावीर्यो महाशक्तिर्महाद्युतिः ।

अनिर्देश्यवपुः श्रीमानमेयात्मा महाद्रिधृक् ॥ १९॥

महेष्वासो महीभर्ता श्रीनिवासः सतां गतिः ।

अनिरुद्धः सुरानन्दो गोविन्दो गोविदां पतिः ॥ २०॥

मरीचिर्दमनो हंसः सुपर्णो भुजगोत्तमः ।

हिरण्यनाभः सुतपाः पद्मनाभः प्रजापतिः ॥ २१॥

अमृत्युः सर्वदृक् सिंहः सन्धाता सन्धिमान् स्थिरः ।

अजो दुर्मर्षणः शास्ता विश्रुतात्मा सुरारिहा ॥ २२॥

गुरुर्गुरुतमो धाम सत्यः सत्यपराक्रमः ।

निमिषोऽनिमिषः स्रग्वी वाचस्पतिरुदारधीः ॥ २३॥

अग्रणीर्ग्रामणीः श्रीमान् न्यायो नेता समीरणः ।

सहस्रमूर्धा विश्वात्मा सहस्राक्षः सहस्रपात् ॥ २४॥

आवर्तनो निवृत्तात्मा संवृतः सम्प्रमर्दनः ।

अहः संवर्तको वह्निरनिलो धरणीधरः ॥ २५॥

सुप्रसादः प्रसन्नात्मा विश्वधृग्विश्वभुग्विभुः ।

सत्कर्ता सत्कृतः साधुर्जह्नुर्नारायणो नरः ॥ २६॥

असङ्ख्येयोऽप्रमेयात्मा विशिष्टः शिष्टकृच्छुचिः ।

सिद्धार्थः सिद्धसङ्कल्पः सिद्धिदः सिद्धिसाधनः ॥ २७॥

वृषाही वृषभो विष्णुर्वृषपर्वा वृषोदरः ।

वर्धनो वर्धमानश्च विविक्तः श्रुतिसागरः ॥ २८॥

सुभुजो दुर्धरो वाग्मी महेन्द्रो वसुदो वसुः ।

नैकरूपो बृहद्रूपः शिपिविष्टः प्रकाशनः ॥ २९॥

ओजस्तेजोद्युतिधरः प्रकाशात्मा प्रतापनः ।

ऋद्धः स्पष्टाक्षरो मन्त्रश्चन्द्रांशुर्भास्करद्युतिः ॥ ३०॥

अमृतांशूद्भवो भानुः शशबिन्दुः सुरेश्वरः ।

औषधं जगतः सेतुः सत्यधर्मपराक्रमः ॥ ३१॥

भूतभव्यभवन्नाथः पवनः पावनोऽनलः ।

कामहा कामकृत्कान्तः कामः कामप्रदः प्रभुः ॥ ३२॥

युगादिकृद्युगावर्तो नैकमायो महाशनः ।

अदृश्यो व्यक्तरूपश्च सहस्रजिदनन्तजित् ॥ ३३॥

इष्टोऽविशिष्टः शिष्टेष्टः शिखण्डी नहुषो वृषः ।

क्रोधहा क्रोधकृत्कर्ता विश्वबाहुर्महीधरः ॥ ३४॥

अच्युतः प्रथितः प्राणः प्राणदो वासवानुजः ।

अपांनिधिरधिष्ठानमप्रमत्तः प्रतिष्ठितः ॥ ३५॥

स्कन्दः स्कन्दधरो धुर्यो वरदो वायुवाहनः ।

वासुदेवो बृहद्भानुरादिदेवः पुरन्दरः ॥ ३६॥

अशोकस्तारणस्तारः शूरः शौरिर्जनेश्वरः ।

अनुकूलः शतावर्तः पद्मी पद्मनिभेक्षणः ॥ ३७॥

पद्मनाभोऽरविन्दाक्षः पद्मगर्भः शरीरभृत् ।

महर्द्धिरृद्धो वृद्धात्मा महाक्षो गरुडध्वजः ॥ ३८॥

अतुलः शरभो भीमः समयज्ञो हविर्हरिः ।

सर्वलक्षणलक्षण्यो लक्ष्मीवान् समितिञ्जयः ॥ ३९॥

विक्षरो रोहितो मार्गो हेतुर्दामोदरः सहः ।

महीधरो महाभागो वेगवानमिताशनः ॥ ४०॥

उद्भवः क्षोभणो देवः श्रीगर्भः परमेश्वरः ।

करणं कारणं कर्ता विकर्ता गहनो गुहः ॥ ४१॥

व्यवसायो व्यवस्थानः संस्थानः स्थानदो ध्रुवः ।

परर्द्धिः परमस्पष्टस्तुष्टः पुष्टः शुभेक्षणः ॥ ४२॥

रामो विरामो विरजो मार्गो नेयो नयोऽनयः ।

वीरः शक्तिमतां श्रेष्ठो धर्मो धर्मविदुत्तमः ॥ ४३॥

वैकुण्ठः पुरुषः प्राणः प्राणदः प्रणवः पृथुः ।

हिरण्यगर्भः शत्रुघ्नो व्याप्तो वायुरधोक्षजः ॥ ४४॥

ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः ।

उग्रः संवत्सरो दक्षो विश्रामो विश्वदक्षिणः ॥ ४५॥

विस्तारः स्थावरस्थाणुः प्रमाणं बीजमव्ययम् ।

अर्थोऽनर्थो महाकोशो महाभोगो महाधनः ॥ ४६॥

अनिर्विण्णः स्थविष्ठोऽभूर्धर्मयूपो महामखः ।

नक्षत्रनेमिर्नक्षत्री क्षमः क्षामः समीहनः ॥ ४७॥

यज्ञ इज्यो महेज्यश्च क्रतुः सत्रं सतां गतिः ।

सर्वदर्शी विमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमम् ॥ ४८॥

सुव्रतः सुमुखः सूक्ष्मः सुघोषः सुखदः सुहृत् ।

मनोहरो जितक्रोधो वीरबाहुर्विदारणः ॥ ४९॥

स्वापनः स्ववशो व्यापी नैकात्मा नैककर्मकृत् ।

वत्सरो वत्सलो वत्सी रत्नगर्भो धनेश्वरः ॥ ५०॥

धर्मगुब्धर्मकृद्धर्मी सदसत्क्षरमक्षरम् ।

अविज्ञाता सहस्रांशुर्विधाता कृतलक्षणः ॥ ५१॥

गभस्तिनेमिः सत्त्वस्थः सिंहो भूतमहेश्वरः ।

आदिदेवो महादेवो देवेशो देवभृद्गुरुः ॥ ५२॥

उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः ।

शरीरभूतभृद्भोक्ता कपीन्द्रो भूरिदक्षिणः ॥ ५३॥

सोमपोऽमृतपः सोमः पुरुजित्पुरुसत्तमः ।

विनयो जयः सत्यसन्धो दाशार्हः सात्वताम्पतिः ॥ ५४॥

जीवो विनयिता साक्षी मुकुन्दोऽमितविक्रमः ।

अम्भोनिधिरनन्तात्मा महोदधिशयोऽन्तकः ॥ ५५॥

अजो महार्हः स्वाभाव्यो जितामित्रः प्रमोदनः ।

आनन्दो नन्दनो नन्दः सत्यधर्मा त्रिविक्रमः ॥ ५६॥

महर्षिः कपिलाचार्यः कृतज्ञो मेदिनीपतिः ।

त्रिपदस्त्रिदशाध्यक्षो महाश‍ृङ्गः कृतान्तकृत् ॥ ५७॥

महावराहो गोविन्दः सुषेणः कनकाङ्गदी ।

गुह्यो गभीरो गहनो गुप्तश्चक्रगदाधरः ॥ ५८॥

वेधाः स्वाङ्गोऽजितः कृष्णो दृढः सङ्कर्षणोऽच्युतः ।

वरुणो वारुणो वृक्षः पुष्कराक्षो महामनाः ॥ ५९॥

भगवान् भगहाऽऽनन्दी वनमाली हलायुधः ।

आदित्यो ज्योतिरादित्यः सहिष्णुर्गतिसत्तमः ॥ ६०॥

सुधन्वा खण्डपरशुर्दारुणो द्रविणप्रदः ।

दिवस्पृक् सर्वदृग्व्यासो वाचस्पतिरयोनिजः ॥ ६१॥

त्रिसामा सामगः साम निर्वाणं भेषजं भिषक् ।

संन्यासकृच्छमः शान्तो निष्ठा शान्तिः परायणम् ॥ ६२॥

शुभाङ्गः शान्तिदः स्रष्टा कुमुदः कुवलेशयः ।

गोहितो गोपतिर्गोप्ता वृषभाक्षो वृषप्रियः ॥ ६३॥

अनिवर्ती निवृत्तात्मा सङ्क्षेप्ता क्षेमकृच्छिवः ।

श्रीवत्सवक्षाः श्रीवासः श्रीपतिः श्रीमतांवरः ॥ ६४॥

श्रीदः श्रीशः श्रीनिवासः श्रीनिधिः श्रीविभावनः ।

श्रीधरः श्रीकरः श्रेयः श्रीमाँल्लोकत्रयाश्रयः ॥ ६५॥

स्वक्षः स्वङ्गः शतानन्दो नन्दिर्ज्योतिर्गणेश्वरः ।

विजितात्माऽविधेयात्मा सत्कीर्तिश्छिन्नसंशयः ॥ ६६॥

उदीर्णः सर्वतश्चक्षुरनीशः शाश्वतस्थिरः ।

भूशयो भूषणो भूतिर्विशोकः शोकनाशनः ॥ ६७॥

अर्चिष्मानर्चितः कुम्भो विशुद्धात्मा विशोधनः ।

अनिरुद्धोऽप्रतिरथः प्रद्युम्नोऽमितविक्रमः ॥ ६८॥

कालनेमिनिहा वीरः शौरिः शूरजनेश्वरः ।

त्रिलोकात्मा त्रिलोकेशः केशवः केशिहा हरिः ॥ ६९॥

कामदेवः कामपालः कामी कान्तः कृतागमः ।

अनिर्देश्यवपुर्विष्णुर्वीरोऽनन्तो धनञ्जयः ॥ ७०॥

ब्रह्मण्यो ब्रह्मकृद् ब्रह्मा ब्रह्म ब्रह्मविवर्धनः ।

ब्रह्मविद् ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः ॥ ७१॥

महाक्रमो महाकर्मा महातेजा महोरगः ।

महाक्रतुर्महायज्वा महायज्ञो महाहविः ॥ ७२॥

स्तव्यः स्तवप्रियः स्तोत्रं स्तुतिः स्तोता रणप्रियः ।

पूर्णः पूरयिता पुण्यः पुण्यकीर्तिरनामयः ॥ ७३॥

मनोजवस्तीर्थकरो वसुरेता वसुप्रदः ।

वसुप्रदो वासुदेवो वसुर्वसुमना हविः ॥ ७४॥

सद्गतिः सत्कृतिः सत्ता सद्भूतिः सत्परायणः ।

शूरसेनो यदुश्रेष्ठः सन्निवासः सुयामुनः ॥ ७५॥

भूतावासो वासुदेवः सर्वासुनिलयोऽनलः ।

दर्पहा दर्पदो दृप्तो दुर्धरोऽथापराजितः ॥ ७६॥

विश्वमूर्तिर्महामूर्तिर्दीप्तमूर्तिरमूर्तिमान् ।

अनेकमूर्तिरव्यक्तः शतमूर्तिः शताननः ॥ ७७॥

एको नैकः सवः कः किं यत् तत्पदमनुत्तमम् ।

लोकबन्धुर्लोकनाथो माधवो भक्तवत्सलः ॥ ७८॥

सुवर्णवर्णो हेमाङ्गो वराङ्गश्चन्दनाङ्गदी ।

वीरहा विषमः शून्यो घृताशीरचलश्चलः ॥ ७९॥

अमानी मानदो मान्यो लोकस्वामी त्रिलोकधृक् ।

सुमेधा मेधजो धन्यः सत्यमेधा धराधरः ॥ ८०॥

तेजोवृषो द्युतिधरः सर्वशस्त्रभृतां वरः ।

प्रग्रहो निग्रहो व्यग्रो नैकश‍ृङ्गो गदाग्रजः ॥ ८१॥

चतुर्मूर्तिश्चतुर्बाहुश्चतुर्व्यूहश्चतुर्गतिः ।

चतुरात्मा चतुर्भावश्चतुर्वेदविदेकपात् ॥ ८२॥

समावर्तोऽनिवृत्तात्मा दुर्जयो दुरतिक्रमः ।

दुर्लभो दुर्गमो दुर्गो दुरावासो दुरारिहा ॥ ८३॥

शुभाङ्गो लोकसारङ्गः सुतन्तुस्तन्तुवर्धनः ।

इन्द्रकर्मा महाकर्मा कृतकर्मा कृतागमः ॥ ८४॥

उद्भवः सुन्दरः सुन्दो रत्ननाभः सुलोचनः ।

अर्को वाजसनः श‍ृङ्गी जयन्तः सर्वविज्जयी ॥ ८५॥

सुवर्णबिन्दुरक्षोभ्यः सर्ववागीश्वरेश्वरः ।

महाह्रदो महागर्तो महाभूतो महानिधिः ॥ ८६॥

कुमुदः कुन्दरः कुन्दः पर्जन्यः पावनोऽनिलः ।

अमृताशोऽमृतवपुः सर्वज्ञः सर्वतोमुखः ॥ ८७॥

सुलभः सुव्रतः सिद्धः शत्रुजिच्छत्रुतापनः ।

न्यग्रोधोऽदुम्बरोऽश्वत्थश्चाणूरान्ध्रनिषूदनः ॥ ८८॥

सहस्रार्चिः सप्तजिह्वः सप्तैधाः सप्तवाहनः ।

अमूर्तिरनघोऽचिन्त्यो भयकृद्भयनाशनः ॥ ८९॥

अणुर्बृहत्कृशः स्थूलो गुणभृन्निर्गुणो महान् ।

अधृतः स्वधृतः स्वास्यः प्राग्वंशो वंशवर्धनः ॥ ९०॥

भारभृत् कथितो योगी योगीशः सर्वकामदः ।

आश्रमः श्रमणः क्षामः सुपर्णो वायुवाहनः ॥ ९१॥

धनुर्धरो धनुर्वेदो दण्डो दमयिता दमः ।

अपराजितः सर्वसहो नियन्ताऽनियमोऽयमः ॥ ९२॥

सत्त्ववान् सात्त्विकः सत्यः सत्यधर्मपरायणः ।

अभिप्रायः प्रियार्होऽर्हः प्रियकृत् प्रीतिवर्धनः ॥ ९३॥

विहायसगतिर्ज्योतिः सुरुचिर्हुतभुग्विभुः ।

रविर्विरोचनः सूर्यः सविता रविलोचनः ॥ ९४॥

अनन्तो हुतभुग्भोक्ता सुखदो नैकजोऽग्रजः ।

अनिर्विण्णः सदामर्षी लोकाधिष्ठानमद्भुतः ॥ ९५॥

सनात्सनातनतमः कपिलः कपिरव्ययः ।

स्वस्तिदः स्वस्तिकृत्स्वस्ति स्वस्तिभुक्स्वस्तिदक्षिणः ॥ ९६॥

अरौद्रः कुण्डली चक्री विक्रम्यूर्जितशासनः ।

शब्दातिगः शब्दसहः शिशिरः शर्वरीकरः ॥ ९७॥

अक्रूरः पेशलो दक्षो दक्षिणः क्षमिणांवरः ।

विद्वत्तमो वीतभयः पुण्यश्रवणकीर्तनः ॥ ९८॥

उत्तारणो दुष्कृतिहा पुण्यो दुःस्वप्ननाशनः ।

वीरहा रक्षणः सन्तो जीवनः पर्यवस्थितः ॥ ९९॥

अनन्तरूपोऽनन्तश्रीर्जितमन्युर्भयापहः ।

चतुरश्रो गभीरात्मा विदिशो व्यादिशो दिशः ॥ १००॥

अनादिर्भूर्भुवो लक्ष्मीः सुवीरो रुचिराङ्गदः ।

जननो जनजन्मादिर्भीमो भीमपराक्रमः ॥ १०१॥

आधारनिलयोऽधाता पुष्पहासः प्रजागरः ।

ऊर्ध्वगः सत्पथाचारः प्राणदः प्रणवः पणः ॥ १०२॥

प्रमाणं प्राणनिलयः प्राणभृत्प्राणजीवनः ।

तत्त्वं तत्त्वविदेकात्मा जन्ममृत्युजरातिगः ॥ १०३॥

भूर्भुवःस्वस्तरुस्तारः सविता प्रपितामहः ।

यज्ञो यज्ञपतिर्यज्वा यज्ञाङ्गो यज्ञवाहनः ॥ १०४॥

यज्ञभृद् यज्ञकृद् यज्ञी यज्ञभुग् यज्ञसाधनः ।

यज्ञान्तकृद् यज्ञगुह्यमन्नमन्नाद एव च ॥ १०५॥

आत्मयोनिः स्वयञ्जातो वैखानः सामगायनः ।

देवकीनन्दनः स्रष्टा क्षितीशः पापनाशनः ॥ १०६॥

शङ्खभृन्नन्दकी चक्री शार्ङ्गधन्वा गदाधरः ।

रथाङ्गपाणिरक्षोभ्यः सर्वप्रहरणायुधः ॥ १०७॥

॥ ॥ मधुराष्टक् ॥ ॥

अधरं मधुरं वदनं मधुरं नयनं मधुरं हसितं मधुरम् ।

हृदयं मधुरं गमनं मधुरं मधुराधिपतेरखिलं मधुरम् ॥ १॥

वचनं मधुरं चरितं मधुरं वसनं मधुरं वलितं मधुरम् ।

चलितं मधुरं भ्रमितं मधुरं मधुराधिपतेरखिलं मधुरम् ॥ २॥

वेणुर्मधुरो रेणुर्मधुरः पाणिर्मधुरः पादौ मधुरौ ।

नृत्यं मधुरं सख्यं मधुरं मधुराधिपतेरखिलं मधुरम् ॥ ३॥

गीतं मधुरं पीतं मधुरं भुक्तं मधुरं सुप्तं मधुरम् ।

रूपं मधुरं तिलकं मधुरं मधुराधिपतेरखिलं मधुरम् ॥ ४॥

करणं मधुरं तरणं मधुरं हरणं मधुरं रमणं मधुरम् ।

वमितं मधुरं शमितं मधुरं मधुराधिपतेरखिलं मधुरम् ॥ ५॥

गुञ्जा मधुरा माला मधुरा यमुना मधुरा वीची मधुरा ।

सलिलं मधुरं कमलं मधुरं मधुराधिपतेरखिलं मधुरम् ॥ ६॥

गोपी मधुरा लीला मधुरा युक्तं मधुरं मुक्तं मधुरम् ।

दृष्टं मधुरं शिष्टं मधुरं मधुराधिपतेरखिलं मधुरम् ॥ ७॥

गोपा मधुरा गावो मधुरा यष्टिर्मधुरा सृष्टिर्मधुरा ।

दलितं मधुरं फलितं मधुरं मधुराधिपतेरखिलं मधुरम् ॥ ८॥

॥ || कृष्णाष्टकम् || ॥

भजे व्रजैकमण्डनं समस्तपापखण्डनं

स्वभक्तचित्तरंजनं सदैव नन्दनन्दनम् |

सुपिच्छगुच्छमस्तकं सुनादवेणुहस्तकं

अनंगरंगसागरं नमामि कृष्णनागरम् || १ ||

मनोजगर्वमोचनं विशाललोललोचनं

विधूतगोपशोचनं नमामि पद्मलोचनम् |

करारविन्दभूधरं स्मितावलोकसुन्दरं

महेन्द्रमानदारणं नमामि कृष्णावारणम् || २ ||

कदम्बसूनकुण्डलं सुचारुगण्डमण्डलं

व्रजांगनैकवल्लभं नमामि कृष्णदुर्लभम् |

यशोदया समोदया सगोपया सनन्दया

युतं सुखैकदायकं नमामि गोपनायकम् || ३ ||

सदैव पादपंकजं मदीय मानसे निजं

दधानमुक्तमालकं नमामि नन्दबालकम् |

समस्तदोषशोषणं समस्तलोकपोषणं

समस्तगोपमानसं नमामि नन्दलालसम् || ४ ||

भुवो भरावतारकं भवाब्धिकर्णधारकं

यशोमतीकिशोरकं नमामि चित्तचोरकम् |

दृगन्तकान्तभंगिनं सदा सदालिसंगिनं

दिने दिने नवं नवं नमामि नन्दसम्भवम् || ५ ||

गुणाकरं सुखाकरं कृपाकरं कृपापरं

सुरद्विषन्निकन्दनं नमामि गोपनन्दनम् |

नवीनगोपनागरं नवीनकेलिलम्पटं

नमामि मेघसुन्दरं तडित्प्रभालसत्पटम् || ६ ||

समस्तगोपनन्दनं हृदम्बुजैकमोदनं

नमामि कुंजमध्यगं प्रसन्नभानुशोभनम् |

निकामकामदायकं दृगन्तचारुसायकं

रसालवेणुगायकं नमामि कुंजनायकम् || ७ ||

विदग्धगोपिकामनोमनोज्ञतल्पशायिनं

नमामि कुंजकानने प्रव्रद्धवन्हिपायिनम् |

किशोरकान्तिरंजितं दृअगंजनं सुशोभितं

गजेन्द्रमोक्षकारिणं नमामि श्रीविहारिणम् || ८ ||

यदा तदा यथा तथा तथैव कृष्णसत्कथा

मया सदैव गीयतां तथा कृपा विधीयताम् |

प्रमाणिकाष्टकद्वयं जपत्यधीत्य यः पुमान

भवेत्स नन्दनन्दने भवे भवे सुभक्तिमान || ९ ||

॥ || श्रीकृष्णाष्टकम् || ॥

श्रियाऽऽश्लिष्टो विष्णुः स्थिरचरगुरुर्वेदविषयो

धियां साक्षी शुद्धो हरिरसुरहन्ताब्जनयनः ।

गदी शङ्खी चक्री विमलवनमाली स्थिररुचिः

शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः ॥ १॥

यतः सर्वं जातं वियदनिलमुख्यं जगदिदम्

स्थितौ निःशेषं योऽवति निजसुखांशेन मधुहा ।

लये सर्वं स्वस्मिन्हरति कलया यस्तु स विभुः

शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः ॥ २॥

असूनायम्यादौ यमनियममुख्यैः सुकरणै/-

र्निरुद्ध्येदं चित्तं हृदि विलयमानीय सकलम् ।

यमीड्यं पश्यन्ति प्रवरमतयो मायिनमसौ

शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः ॥ ३॥

पृथिव्यां तिष्ठन्यो यमयति महीं वेद न धरा

यमित्यादौ वेदो वदति जगतामीशममलम् ।

नियन्तारं ध्येयं मुनिसुरनृणां मोक्षदमसौ

शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः ॥ ४॥

महेन्द्रादिर्देवो जयति दितिजान्यस्य बलतो

न कस्य स्वातन्त्र्यं क्वचिदपि कृतौ यत्कृतिमृते ।

बलारातेर्गर्वं परिहरति योऽसौ विजयिनः

शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः ॥ ५॥

विना यस्य ध्यानं व्रजति पशुतां सूकरमुखां

विना यस्य ज्ञानं जनिमृतिभयं याति जनता ।

विना यस्य स्मृत्या कृमिशतजनिं याति स विभुः

शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः ॥ ६॥

नरातङ्कोत्तङ्कः शरणशरणो भ्रान्तिहरणो

घनश्यामो वामो व्रजशिशुवयस्योऽर्जुनसखः ।

स्वयम्भूर्भूतानां जनक उचिताचारसुखदः

शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः ॥ ७॥

यदा धर्मग्लानिर्भवति जगतां क्षोभकरणी

तदा लोकस्वामी प्रकटितवपुः सेतुधृदजः ।

सतां धाता स्वच्छो निगमगणगीतो व्रजपतिः

शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः ॥ ८॥

इति हरिरखिलात्माऽऽराधितः शङ्करेण

श्रुतिविशदगुणोऽसौ मातृमोक्षार्थमाद्यः ।

यतिवरनिकटे श्रीयुक्त आविर्बभूव

स्वगुणवृत उदारः शङ्खचक्राञ्जहस्तः ॥ ९॥

॥ શ્રીકૃષ્ણ આરતી ॥

જય કાના કાળા

જય કાના કાળા, નટવર નંદલાલા, પ્રભુ નટવર (૨)

મીઠી મોરલીવાળા (૨) ગોપીના પ્યારા.. ॐ જય કાના કાળા...

કામણગારા કાન, કામણ કંઈ કીધા, પ્રભુ કામણ (૨)

માખણ ચોરી મોહન (૨) ચિત્ત ચોરી લીધાં.. ॐ જય કાના કાળા...

નંદ જશોદા ઘેર વૈકુંઠ ઉતારી, પ્રભુ વૈકુંઠ (૨)

કાલિય મર્દન કીધો (૨) ગાયોને ચારી.. ॐ જય કાના કાળા...

ગુણો તણો તુજ પાર, કેમે નહીં આવે, પ્રભુ કેમે (૨)

નેતિ વેદ પોકારે (૨) પુનિત શું ગાવે.. ॐ જય કાના કાળા...

॥ || पाण्डुरङ्गाष्टकं || ॥

महायोगपीठे तटे भीमरथ्या

वरं पुण्डरीकाय दातुं मुनीन्द्रैः ।

समागत्य तिष्ठन्तमानंदकंदं

परब्रह्मलिङ्गं भजे पाण्डुरङ्गम् ॥ १॥

तटिद्वाससं नीलमेघावभासं

रमामंदिरं सुंदरं चित्प्रकाशम् ।

वरं त्विष्टकायां समन्यस्तपादं

परब्रह्मलिङ्गं भजे पाण्डुरङ्गम् ॥ २॥

प्रमाणं भवाब्धेरिदं मामकानां

नितम्बः कराभ्यां धृतो येन तस्मात् ।

विधातुर्वसत्यै धृतो नाभिकोशः

परब्रह्मलिङ्गं भजे पाण्डुरङ्गम् ॥ ३॥

स्फुरत्कौस्तुभालङ्कृतं कण्ठदेशे

श्रिया जुष्टकेयूरकं श्रीनिवासम् ।

शिवं शांतमीड्यं वरं लोकपालं

परब्रह्मलिङ्गं भजे पाण्डुरङ्गम् ॥ ४॥

शरच्चंद्रबिंबाननं चारुहासं

लसत्कुण्डलाक्रांतगण्डस्थलांतम् ।

जपारागबिंबाधरं कञ्जनेत्रं

परब्रह्मलिङ्गं भजे पाण्डुरङ्गम्॥ ५॥

किरीटोज्वलत्सर्वदिक्प्रांतभागं

सुरैरर्चितं दिव्यरत्नैरनर्घैः ।

त्रिभङ्गाकृतिं बर्हमाल्यावतंसं

परब्रह्मलिङ्गं भजे पाण्डुरङ्गम्॥ ६॥

विभुं वेणुनादं चरंतं दुरंतं

स्वयं लीलया गोपवेषं दधानम् ।

गवां बृन्दकानन्ददं चारुहासं

परब्रह्मलिङ्गं भजे पाण्डुरङ्गम् ॥ ७॥

अजं रुक्मिणीप्राणसञ्जीवनं तं

परं धाम कैवल्यमेकं तुरीयम् ।

प्रसन्नं प्रपन्नार्तिहं देवदेवं

परब्रह्मलिङ्गं भजे पाण्डुरङ्गम् ॥ ८॥

स्तवं पाण्डुरंगस्य वै पुण्यदं ये

पठन्त्येकचित्तेन भक्त्या च नित्यम् ।

भवांभोनिधिं ते वितीर्त्वान्तकाले

हरेरालयं शाश्वतं प्राप्नुवन्ति ॥

॥ श्रीगोविन्दाष्टकं ॥

सत्यं ज्ञानमनन्तं नित्यमनाकाशं परमाकाशं

गोष्ठप्राङ्गणरिङ्खणलोलमनायासं परमायासम् ।

मायाकल्पितनानाकारमनाकारं भुवनाकारं

क्ष्माया नाथमनाथं प्रणमत गोविन्दं परमानन्दम् ॥ १॥

मृत्स्नामत्सीहेति यशोदाताडनशैशव सन्त्रासं

व्यदितवक्त्रालोकितलोकालोकचतुर्दशलोकालिम् ।

लोकत्रयपुरमूलस्तम्भं लोकालोकमनालोकं

लोकेशं परमेशं प्रणमत गोविन्दं परमानन्दम् ॥ २॥

त्रैविष्टपरिपुवीरघ्नं क्षितिभारघ्नं भवरोगघ्नं

कैवल्यं नवनीताहारमनाहारं भुवनाहारम् ।

वैमल्यस्फुटचेतोवृत्तिविशेषाभासमनाभासं

शैवं केवलशान्तं प्रणमत गोविन्दं परमानन्दम् ॥ ३॥

गोपालं प्रभुलीलाविग्रहगोपालं कुलगोपालं

गोपीखेलनगोवर्धनधृतिलीलालालितगोपालम् ।

गोभिर्निगदित गोविन्दस्फुतनामानं बहुनामानं

गोपीगोचरपथिकं प्रणमत गोविन्दं परमानन्दम् ॥ ४॥

गोपीमण्डलगोष्ठिभेदं भेदावस्थमभेदाभं

शश्वद्गोखुरनिर्घूतोद्धतधूलीधूसरसौभाग्यम् ।

श्रद्धाभक्तिगृहीतानन्दमचिन्त्यं चिन्तितसद्भावं

चिन्तामणिमहिमानं प्रणमत गोविन्दं परमानन्दम् ॥ ५॥

स्नानव्याकुलयोशिद्वस्त्रमुपादायागमुपारूढं

व्यदित्सन्तिरथ दिग्वस्त्रा ह्युपुदातुमुपाकर्षन्तम् ।

निर्धूतद्वयशोकविमोहं बुद्धं बुद्धेरन्तस्थं

सत्तामात्रशरीरं प्रणमत गोविन्दं परमानन्दम् ॥ ६॥

कान्तं कारणकारणमादिमनादिं कालमनाभासं

कालिन्दीगतकालियशिरसि मुहुर्नृत्यन्तं नृत्यन्तम् ।

कालं कालकलातीतं कलिताशेषं कलिदोषघ्नं

कालत्रयगतिहेतुं प्रणमत गोविन्दं परमानन्दम् ॥ ७॥

वृन्दावनभुवि वृन्दारकगणवृन्दाराध्यं वन्देऽहं

कुन्दाभामलमन्दस्मेरसुधानन्दं सुहृदानन्दम् ।

वन्द्याशेषमहामुनिमानसवन्द्यानन्दपदद्वन्द्वं

वन्द्याशेषगुणाब्धिं प्रणमत गोविन्दं परमानन्दम् ॥ ८॥

गोविन्दाष्टकमेतदधीते गोविन्दार्पितचेता यो

गोविन्दाच्युत माधव विष्णो गोकुलनायक कृष्णेति ।

गोविन्दाङ्घ्रिसरोजध्यानसुधाजलधौतसमस्ताघो

गोविन्दं परमानन्दामृतमन्तःस्थं स तमभ्येति ॥

॥ कैवल्याष्टकम् ॥

मधुरं मधुरेभ्योऽपि मङ्गलेभ्योपि मङ्गलम् ।

पावनं पावनेभ्योऽपि हरेर्नामैव केवलम् ॥ १॥

आब्रह्मस्तम्बपर्यन्तं सर्वं मायामयं जगत् ।

सत्यं सत्यं पुनः सत्यं हरेर्नामैव केवलम् ॥ २॥

स गुरुः स पिता चापि सा माता बान्धवोऽपि सः ।

शिक्षयेच्चेत्सदा स्मर्तुं हरेर्नामैव केवलम् ॥ ३॥

निःश्र्वासे न हि विश्र्वासः कदा रुद्धो भविष्यति ।

कीर्तनीयमतो बाल्याद्धरेर्नामैव केवलम् ॥ ४॥

हरिः सदा वसेत्तत्र यत्र भगवता जनाः ।

गायन्ति भक्तिभावेन हरेर्नामैव केवलम् ॥ ५॥

अहो दुःखं महादुःखं दुःखद् दुःखतरं यतः ।

काचार्थं विस्मृतं रत्नं हरेर्नामैव केवलम् ॥ ६॥

दीयतां दीयतां कर्णो नीयतां नीयतां वचः ।

गीयतां गीयतां नित्यं हरेर्नामैव केवलम् ॥ ७॥

तृणीकृत्य जगत्सर्वं राजते सकलोपरि ।

चिदानन्दमयं शुद्धं हरेर्नामैव केवलम् ॥ ८॥

॥ श्रीनन्दकुमाराष्टकम् ॥

सुन्दरगोपालं उरवनमालं नयनविशालं दुःखहरं

वृन्दावनचन्द्रमानन्दकन्दं परमानन्दं धरणिधरम् ।

वल्लभघनश्यामं पूर्णकामं अत्यभिरामं प्रीतिकरं

भज नन्दकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥ १॥

सुन्दरवारिजवदनं निर्जितमदनं आनन्दसदनं मुकुटधरं

गुञ्जाकृतिहारं विपिनविहारं परमोदारं चीरहरम् ।

वल्लभपटपीतं कृतउपवीतं करनवनीतं विबुधवरं

भज नन्दकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥ २॥

शोभितमुखधुलं यमुनाकूलं निपटअतूलं सुखदतरं

मुखमण्डितरेणुं चारितधेनुं वादितवेणुं मधुरसुरम् ।

वल्लभमतिविमलं शुभपदकमलं नखरुचि अमलं तिमिरहरं

भज नन्दकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥ ३॥

शिरमुकुटसुदेशं कुञ्चितकेशं नटवरवेशं कामवरं

मायाकृतमनुजं हलधरअनुजं प्रतिहतदनुजं भारहरम् ।

वल्लभव्रजपालं सुभगसुचालं हितमनुकालं भाववरं

भज नन्दकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥ ४॥

इन्दीवरभासं प्रकटसुरासं कुसुमविकासं वंशिधरं

हृत्मन्मथमानं रूपनिधानं कृतकलगानं चित्तहरम् ।

वल्लभमृदुहासं कुञ्जनिवासं विविधविलासं केलिकरं

भज नन्दकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥ ५॥

अतिपरमप्रवीणं पालितदीनं भक्ताधीनं कर्मकरं

मोहनमतिधीरं फणिबलवीरं हतपरवीरं तरलतरम् ।

वल्लभव्रजरमणं वारिजवदनं हलधरशमनं शैलधरं

भज नन्दकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥ ६॥

जलधरद्युतिअङ्गं ललितत्रिभङ्गं बहुकृतरङ्गं रसिकवरं

गोकुलपरिवारं मदनाकारं कुञ्जविहारं गूढतरम् ।

वल्लभव्रजचन्द्रं सुभगसुछन्दं कृतआनन्दं भ्रान्तिहरं

भज नन्दकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥ ७॥

वन्दितयुगचरणं पावनकरणं जगदुद्धरणं विमलधरं

कालियशिरगमनं कृतफणिनमनं घातितयमनं मृदुलतरम् ।

वल्लभदुःखहरणं निर्मलचरणं अशरणशरणं मुक्तिकरं

भज नन्दकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥ ८॥

॥ श्रीरामरक्षास्तोत्र ॥

॥ ॐ श्रीगणेशाय नमः ॥

अस्य श्रीरामरक्षास्तोत्रमंत्रस्य । बुधकौशिक ऋषिः ।

श्रीसीतारामचंद्रो देवता । अनुष्टुप् छंदः ।

सीता शक्तिः । श्रीमद् हनुमान कीलकम् ।

श्रीरामचंद्रप्रीत्यर्थे रामरक्षास्तोत्रजपे विनियोगः ॥

॥ अथ ध्यानम् ॥

ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपद्मासनस्थम् ।

पीतं वासो वसानं नवकमलदलस्पर्धिनेत्रं प्रसन्नम् ।

वामांकारूढ सीतामुखकमलमिलल्लोचनं नीरदाभम् ।

नानालंकारदीप्तं दधतमुरुजटामंडनं रामचंद्रम् ॥

॥ इति ध्यानम् ॥

चरितं रघुनाथस्य शतकोटि प्रविस्तरम् ।

एकैकमक्षरं पुंसां महापातकनाशनम् ॥ १॥

ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनम् ।

जानकीलक्ष्मणोपेतं जटामुकुटमंडितम् ॥ २॥

सासितूणधनुर्बाणपाणिं नक्तंचरान्तकम् ।

स्वलीलया जगत्रातुं आविर्भूतं अजं विभुम् ॥ ३॥

रामरक्षां पठेत्प्राज्ञः पापघ्नीं सर्वकामदाम् ।

शिरोमे राघवः पातु भालं दशरथात्मजः ॥ ४॥

कौसल्येयो दृशौ पातु विश्वामित्रप्रियश्रुती ।

घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सलः ॥ ५॥

जिह्वां विद्यानिधिः पातु कंठं भरतवंदितः ।

स्कंधौ दिव्यायुधः पातु भुजौ भग्नेशकार्मुकः ॥ ६॥

करौ सीतापतिः पातु हृदयं जामदग्न्यजित् ।

मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रयः ॥ ७॥

सुग्रीवेशः कटी पातु सक्थिनी हनुमत्प्रभुः ।

ऊरू रघूत्तमः पातु रक्षःकुलविनाशकृत् ॥ ८॥

जानुनी सेतुकृत्पातु जंघे दशमुखान्तकः ।

पादौ बिभीषणश्रीदः पातु रामोखिलं वपुः ॥ ९॥

एतां रामबलोपेतां रक्षां यः सुकृती पठेत् ।

स चिरायुः सुखी पुत्री विजयी विनयी भवेत् ॥ १०॥

पातालभूतलव्योमचारिणश्छद्मचारिणः ।

न द्रष्टुमपि शक्तास्ते रक्षितं रामनामभिः ॥ ११॥

रामेति रामभद्रेति रामचंद्रेति वा स्मरन् ।

नरो न लिप्यते पापैः भुक्तिं मुक्तिं च विन्दति ॥ १२॥

जगजैत्रैकमंत्रेण रामनाम्नाभिरक्षितम् ।

यः कंठे धारयेत्तस्य करस्थाः सर्वसिद्धयः ॥ १३॥

वज्रपंजरनामेदं यो रामकवचं स्मरेत् ।

अव्याहताज्ञः सर्वत्र लभते जयमंगलम् ॥ १४॥

आदिष्टवान् यथा स्वप्ने रामरक्षांमिमां हरः ।

तथा लिखितवान् प्रातः प्रबुद्धो बुधकौशिकः ॥ १५॥

आरामः कल्पवृक्षाणां विरामः सकलापदाम् ।

अभिरामस्त्रिलोकानां रामः श्रीमान् स नः प्रभुः ॥ १६॥

तरुणौ रूपसंपन्नौ सुकुमारौ महाबलौ ।

पुंडरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ ॥ १७॥

फलमूलाशिनौ दान्तौ तापसौ ब्रह्मचारिणौ ।

पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ ॥ १८॥

शरण्यौ सर्वसत्त्वानां श्रेष्ठौ सर्वधनुष्मताम् ।

रक्षः कुलनिहंतारौ त्रायेतां नो रघूत्तमौ ॥ १९॥

आत्तसज्जधनुषाविषुस्पृशावक्षयाशुगनिषंगसंगिनौ ।

रक्षणाय मम रामलक्ष्मणावग्रतः पथि सदैव गच्छताम् ॥ २०॥

सन्नद्धः कवची खड्गी चापबाणधरो युवा ।

गच्छन्मनोरथोस्माकं रामः पातु सलक्ष्मणः ॥ २१॥

रामो दाशरथिः शूरो लक्ष्मणानुचरो बली ।

काकुत्स्थः पुरुषः पूर्णः कौसल्येयो रघुत्तमः ॥ २२॥

वेदान्तवेद्यो यज्ञेशः पुराणपुरुषोत्तमः ।

जानकीवल्लभः श्रीमान् अप्रमेय पराक्रमः ॥ २३॥

इत्येतानि जपन्नित्यं मद्भक्तः श्रद्धयान्वितः ।

अश्वमेधाधिकं पुण्यं सम्प्राप्नोति न संशयः ॥ २४॥

रामं दुर्वादलश्यामं पद्माक्षं पीतवाससम् ।

स्तुवंति नामभिर्दिव्यैः न ते संसारिणो नरः ॥ २५॥

रामं लक्ष्मणपूर्वजं रघुवरं सीतापतिं सुंदरम् ।

काकुत्स्थं करुणार्णवं गुणनिधिं विप्रप्रियं धार्मिकम् ।

राजेंद्रं सत्यसंधं दशरथतनयं श्यामलं शांतमूर्तिम् ।

वंदे लोकाभिरामं रघुकुलतिलकं राघवं रावणारिम् ॥ २६॥

रामाय रामभद्राय रामचंद्राय वेधसे ।

रघुनाथाय नाथाय सीतायाः पतये नमः ॥ २७॥

श्रीराम राम रघुनंदन राम राम ।

श्रीराम राम भरताग्रज राम राम ।

श्रीराम राम रणकर्कश राम राम ।

श्रीराम राम शरणं भव राम राम ॥ २८॥

श्रीरामचंद्रचरणौ मनसा स्मरामि ।

श्रीरामचंद्रचरणौ वचसा गृणामि ।

श्रीरामचंद्रचरणौ शिरसा नमामि ।

श्रीरामचंद्रचरणौ शरणं प्रपद्ये ॥ २९॥

माता रामो मत्पिता रामचंद्रः ।

स्वामी रामो मत्सखा रामचंद्रः ।

सर्वस्वं मे रामचंद्रो दयालुः ।

नान्यं जाने नैव जाने न जाने ॥ ३०॥

दक्षिणे लक्ष्मणो यस्य वामे तु जनकात्मजा ।

पुरतो मारुतिर्यस्य तं वंदे रघुनंदनम् ॥ ३१॥

लोकाभिरामं रणरंगधीरम् ।

राजीवनेत्रं रघुवंशनाथम् ।

कारुण्यरूपं करुणाकरं तम् ।

श्रीरामचंद्रम् शरणं प्रपद्ये ॥ ३२॥

मनोजवं मारुततुल्यवेगम् ।

जितेन्द्रियं बुद्धिमतां वरिष्ठम् ।

वातात्मजं वानरयूथमुख्यम् ।

श्रीरामदूतं शरणं प्रपद्ये ॥ ३३॥

कूजंतं राम रामेति मधुरं मधुराक्षरम् ।

आरुह्य कविताशाखां वंदे वाल्मीकिकोकिलम् ॥ ३४॥

आपदां अपहर्तारं दातारं सर्वसम्पदाम् ।

लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ॥ ३५॥

भर्जनं भवबीजानां अर्जनं सुखसम्पदाम् ।

तर्जनं यमदूतानां राम रामेति गर्जनम् ॥ ३६॥

रामो राजमणिः सदा विजयते रामं रमेशं भजे ।

रामेणाभिहता निशाचरचमू रामाय तस्मै नमः ।

रामान्नास्ति परायणं परतरं रामस्य दासोस्म्यहम् ।

रामे चित्तलयः सदा भवतु मे भो राम मामुद्धर ॥ ३७॥

राम रामेति रामेति रमे रामे मनोरमे ।

सहस्रनाम तत्तुल्यं रामनाम वरानने ॥ ३८॥

॥ श्रीरामस्तुती ॥

श्रीरामचन्द्र कृपालु भजु मन हरण भवभय दारुणम् ।

नवकञ्ज लोचन कञ्ज मुखकर कञ्जपद कञ्जारुणम् ॥ १॥

कंदर्प अगणित अमित छबि नव नील नीरज सुन्दरम् ।

पटपीत पानहुँ तड़ित रुचि सुचि नौमि जनक सुतावरम् ॥ २॥

भजु दीन बन्धु दिनेश दानव दैत्यवंशनिकन्दनम् ।

रघुनन्द आनंदकंद कोशल चन्द दशरथ नन्दनम् ॥ ३॥

सिरक्रीट कुण्डल तिलक चारु उदार अङ्ग विभूषणम् ।

आजानुभुज सर चापधर सङ्ग्राम जित खरदूषणम् ॥ ४॥

इति वदति तुलसीदास शङ्कर शेष मुनि मनरञ्जनम् ।

मम हृदयकञ्ज निवास कुरु कामादिखलदलमञ्जनम् ॥ ५॥